वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् । कौशेयं कमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | वाल्क | वाल्कः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | वल्कस्य विकारः | अण् | तद्धितः | अकारान्तः |
2 | फाल | फालः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | फलस्य विकारः । | अण् | तद्धितः | अकारान्तः |
3 | कार्पास | कार्पासः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कर्पास्या बदरायाश्च विकारः फलम् । | अण् | तद्धितः | अकारान्तः |
4 | बादर | बादरः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कर्पास्या बदरायाश्च विकारः फलम् । | अण् | तद्धितः | अकारान्तः |
5 | कौशेय | कौशेयः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | कोशे सम्भूतः । | ढञ् | तद्धितः | अकारान्तः |
6 | राङ्कव | राङ्कवः | पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः | रङ्कौ भवम् । | अण् | तद्धितः | अकारान्तः |