अमरकोशः


श्लोकः

स्वैरिणी पांशुला च स्यादशिश्वी शिशुना विना । अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वैरिणी स्वैरिणी स्त्रीलिङ्गः स्वया, इच्छया स्वेन स्वातन्त्र्येण, वा ईरितुं शीलमस्याः । णिनि कृत् ईकारान्तः
2 पांशुला पांशुला स्त्रीलिङ्गः पांशु पापमस्त्यस्याः । तद्धितः आकारान्तः
3 अशिश्वी अशिश्वी स्त्रीलिङ्गः न शिशुर्यस्याः । तत्पुरुषः समासः ईकारान्तः
4 अवीरा अवीरा स्त्रीलिङ्गः वीरयति । तत्पुरुषः समासः आकारान्तः
5 विश्वस्ता विश्वस्ता स्त्रीलिङ्गः विफलं श्वसिति स्म । क्त कृत् आकारान्तः
6 विधवा विधवा स्त्रीलिङ्गः विगतो धवोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः