अमरकोशः


श्लोकः

हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिकः । हारभेदा यष्टिभेदाद्गुत्सगुत्सार्धगोस्तनाः ॥ १०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हार हारः पुंलिङ्गः ह्रियते मनोऽनेन । घञ् कृत् अकारान्तः
2 मुक्तावली मुक्तावली स्त्रीलिङ्गः मुक्तानामावली दीर्घा पङ्किः ॥ तत्पुरुषः समासः ईकारान्तः
3 देवच्छन्द देवच्छन्दः पुंलिङ्गः देवैश्छन्द्यते । तत्पुरुषः समासः अकारान्तः
4 गुत्स गुत्सः पुंलिङ्गः गुध्यते । उणादिः अकारान्तः
5 गुत्सार्ध गुत्सार्धः पुंलिङ्गः गुत्स्य गुत्स्यार्धः । तत्पुरुषः समासः अकारान्तः
6 गोस्तन गोस्तनः पुंलिङ्गः गोः स्तन इव ॥ तत्पुरुषः समासः अकारान्तः