अमरकोशः


श्लोकः

गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गन्धर्व गन्धर्वः पुंलिङ्गः गन्धश्चासावर्वश्च तत्पुरुषः समासः अकारान्तः
2 शरभ शरभः पुंलिङ्गः शृणाति । अभच् उणादिः अकारान्तः
3 राम रामः पुंलिङ्गः रमते अन्तर्भावितण्यर्थो वा । कृत् अकारान्तः
4 सृमर सृमरः पुंलिङ्गः सरणशीलः । क्मरच् कृत् अकारान्तः
5 गवय गवयः पुंलिङ्गः गवते । अय बाहुलकात् अकारान्तः
6 शश शशः पुंलिङ्गः शशति । अच् कृत् अकारान्तः
7 पशु पशुः पुंलिङ्गः कु उणादिः उकारान्तः