अमरकोशः


श्लोकः

क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्रोष्टुविन्ना क्रोष्टुविन्ना स्त्रीलिङ्गः क्रोष्टुभिर्विन्ना विचारितेव । तत्पुरुषः समासः आकारान्तः
2 सिंहपुच्छी सिंहपुच्छी स्त्रीलिङ्गः सिंहपुच्छमस्याः सिंहपुच्छाकारपुष्पत्वात् तत्पुरुषः समासः ईकारान्तः
3 कलशि कलशिः स्त्रीलिङ्गः कलं श्यति । इन् उणादिः इकारान्तः
4 धावनि धावनिः स्त्रीलिङ्गः धावति । आनि बाहुलकात् इकारान्तः
5 गुहा गुहा स्त्रीलिङ्गः गूहति । कृत् आकारान्तः
6 निदिग्धिका निदिग्धिका स्त्रीलिङ्गः निदिह्यते स्म । कन् तद्धितः आकारान्तः
7 स्पृशी स्पृशी स्त्रीलिङ्गः स्पृशति । कृत् ईकारान्तः
8 व्याघ्री व्याघ्री स्त्रीलिङ्गः व्याजिघ्रति । तत्पुरुषः समासः ईकारान्तः
9 बृहती बृहती स्त्रीलिङ्गः वृहति । अति उणादिः ईकारान्तः
10 कण्टकारिका कण्टकारिका स्त्रीलिङ्गः कण्टकानियर्ति । कन् तद्धितः आकारान्तः