अमरकोशः


श्लोकः

समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः । जम्बीरोऽप्यथ पर्णासे कठिञ्चरकुठेरकौ ॥ ७९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समीरण समीरणः पुंलिङ्गः समीरयति । अकारान्तः
2 मरुवक मरुवकः पुंलिङ्गः मरौ वाति । तत्पुरुषः समासः अकारान्तः
3 प्रस्थपुष्प प्रस्थपुष्पः पुंलिङ्गः प्रस्थे सानौ पुष्प्यति । तत्पुरुषः समासः अकारान्तः
4 फणिज्जक फणिज्जकः पुंलिङ्गः फणी जातोऽस्मात् । तत्पुरुषः समासः अकारान्तः
5 जम्वीर जम्वीरः पुंलिङ्गः जम्यते । तत्पुरुषः समासः अकारान्तः
6 पर्णास पर्णासः पुंलिङ्गः पर्णान्यस्यति । तत्पुरुषः समासः अकारान्तः
7 कटिञ्जर कटिञ्जरः पुंलिङ्गः कठिनं जरयति । तत्पुरुषः समासः अकारान्तः
8 कुठेरक कुठेरकः पुंलिङ्गः कुण्ठति । एरक् उणादिः अकारान्तः