अमरकोशः


श्लोकः

अरिमेदो विट्खदिरे कदरः खदिरे सिते । सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अरिमेद अरिमेदः पुंलिङ्गः अरिरिव मेदः स्नेहोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 विट्खदिर विट्खदिरः पुंलिङ्गः विड्गन्धिः खदिरः ॥ बहुव्रीहिः समासः अकारान्तः
3 कदर कदरः पुंलिङ्गः कस्य जलस्य दरः । तत्पुरुषः समासः अकारान्तः
4 सोमवल्क सोमवल्कः पुंलिङ्गः सोम इव वल्कोऽस्य । बहुव्रीहिः समासः अकारान्तः
5 व्याघ्रपुच्छ व्याघ्रपुच्छः पुंलिङ्गः व्याघ्रस्य पुच्छमिव पुच्छमस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 गन्धर्वहस्तक गन्धर्वहस्तकः पुंलिङ्गः गन्धर्वस्य मृगभेदस्य हस्त इव बहुव्रीहिः समासः अकारान्तः