अमरकोशः


श्लोकः

गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः । प्लक्षश्च तिन्तिडी चिञ्चाम्ब्लिकाऽथो पीतसारके ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गर्दभाण्ड गर्दभाण्डः पुंलिङ्गः गर्दभो गन्धभिद्यपि । तत्पुरुषः समासः अकारान्तः
2 कन्दराल कन्दरालः पुंलिङ्गः कन्दरां लाति । तत्पुरुषः समासः अकारान्तः
3 कपीतन कपीतनः पुंलिङ्गः या लक्ष्म्यास्तन ईतनः । तत्पुरुषः समासः अकारान्तः
4 सुपार्श्वक सुपार्श्वकः पुंलिङ्गः शोभनं पार्श्वमस्य ॥ कन् तद्धितः अकारान्तः
5 प्लक्ष प्लक्षः पुंलिङ्गः प्रक्षरति । कृत् अकारान्तः
6 तिन्तिडी तिन्तिडी स्त्रीलिङ्गः तिम्यति । उणादिः ईकारान्तः
7 चिञ्चा चिञ्चा स्त्रीलिङ्गः कृत् आकारान्तः
8 अम्ब्लिका अम्ब्लिका स्त्रीलिङ्गः अम्ब्लो रसोऽस्यास्ति । ठन् तद्धितः आकारान्तः
9 पीतसालक पीतसालकः पुंलिङ्गः पीत: सारोऽस्य । बहुव्रीहिः समासः अकारान्तः