अमरकोशः


श्लोकः

क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । नूदस्तु यूप: क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्रमुक क्रमुकः पुंलिङ्गः क्रामति । उकन् बाहुलकात् अकारान्तः
2 पट्टिकाख्य पट्टिकाख्यः पुंलिङ्गः पट्टिका आख्या यस्य ॥ अकारान्तः
3 पट्टिन् पट्टी स्त्रीलिङ्गः पट्टोऽस्यास्ति । इनि तद्धितः नकारान्तः
4 लाक्षाप्रसादन लाक्षाप्रसादनः पुंलिङ्गः लाक्षा प्रसीदत्यनेन । युच् उणादिः अकारान्तः
5 नूद नूदः पुंलिङ्गः नुदति पापम् । कृत् अकारान्तः
6 यूप यूपः पुंलिङ्गः युवन्त्यनेन । उणादिः अकारान्तः
7 क्रमुक क्रमुकः पुंलिङ्गः क्रोमति । उकन् उणादिः अकारान्तः
8 ब्रह्मण्य ब्रह्मण्यः पुंलिङ्गः यत् तद्धितः अकारान्तः
9 ब्रह्मदारु ब्रह्मदारुः नपुंसकलिङ्गः ब्रह्मणो ब्रह्मणि वा दारु ॥ तत्पुरुषः समासः उकारान्तः