नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | नदीसर्ज | नदीसर्जः | पुंलिङ्गः | नद्याः सर्जः ॥ | तत्पुरुषः | समासः | अकारान्तः |
2 | वीरतरु | वीरतरुः | पुंलिङ्गः | वीरश्वासौ तरुश्च । | तत्पुरुषः | समासः | उकारान्तः |
3 | इन्द्रदु | इन्द्रदुः | पुंलिङ्गः | इन्द्रस्य इन्द्र इव वा द्रुः ॥ | तत्पुरुषः | समासः | उकारान्तः |
4 | ककुभ | ककुभः | पुंलिङ्गः | अच् | कृत् | अकारान्तः | |
5 | अर्जुन | अर्जुनः | पुंलिङ्गः | अर्ज्यते । | उनन् | उणादिः | अकारान्तः |
6 | राजादन | राजादनः | पुंलिङ्गः, नपुंसकलिङ्गः | राजभिरद्यते । | तत्पुरुषः | समासः | अकारान्तः |
7 | फलाध्यक्ष | फलाध्यक्षः | पुंलिङ्गः | फलानामध्यक्षः ॥ | तत्पुरुषः | समासः | अकारान्तः |
8 | क्षीरिका | क्षीरिका | स्त्रीलिङ्गः | क्षीरमस्त्यस्याः । | ठन् | तद्धितः | आकारान्तः |