अमरकोशः


श्लोकः

पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्त:पुरोचितम् ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आक्रीड आक्रीडः पुंलिङ्गः आक्रीडन्त्यत्र । घञ् कृत् अकारान्तः
2 उद्यान उद्यानम् नपुंसकलिङ्गः उद्यान्त्यत्र । ल्युट् कृत् अकारान्तः
3 प्रमदवन प्रमदवनम् नपुंसकलिङ्गः प्रमदानां वनम् । तत्पुरुषः समासः अकारान्तः