अमरकोशः


श्लोकः

तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च । भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः ॥ ११६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तुण्डिकेरी तुण्डिकेरी स्त्रीलिङ्गः तुण्डीति । तत्पुरुषः समासः ईकारान्तः
2 समुद्रान्ता समुद्रान्ता स्त्रीलिङ्गः समुद्रोऽन्तो यस्याः । बहुव्रीहिः समासः आकारान्तः
3 कार्पासी कार्पासी स्त्रीलिङ्गः करोति क्रियते वा । पास उणादिः ईकारान्तः
4 बदरा बदरा स्त्रीलिङ्गः बदति । अर बाहुलकात् आकारान्तः
5 भारद्वाजी भारद्वाजी स्त्रीलिङ्गः भरद्वाजस्य मुनेरियम् । अण् तद्धितः ईकारान्तः
6 शृङ्गी शृङ्गी स्त्रीलिङ्गः शृणाति गदम् । गन् उणादिः ईकारान्तः
7 ऋषभ ऋषभः पुंलिङ्गः ऋषति । अभच् उणादिः अकारान्तः
8 वृष वृषः पुंलिङ्गः वर्षति । कृत् अकारान्तः