अमरकोशः


श्लोकः

वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षणी । नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वार्ताकी वार्ताकी स्त्रीलिङ्गः वार्तमारोग्यमाकयति । तत्पुरुषः समासः ईकारान्तः
2 हिङ्गुली हिङ्गुली स्त्रीलिङ्गः हिङ्गु लाति । तत्पुरुषः समासः ईकारान्तः
3 सिंही सिंही स्त्रीलिङ्गः हिनस्ति । अच् कृत् ईकारान्तः
4 भण्टाकी भण्टाकी स्त्रीलिङ्गः भट्यते । आक उणादिः ईकारान्तः
5 दुष्प्रधर्षणी दुष्प्रधर्षणी स्त्रीलिङ्गः दुःखेन प्रधृष्यते । तत्पुरुषः समासः ईकारान्तः
6 नाकुली नाकुली स्त्रीलिङ्गः नकुलानामियम् । अण् तद्धितः ईकारान्तः
7 सुरसा सुरसा स्त्रीलिङ्गः शोभनो रसोऽस्याः । बहुव्रीहिः समासः आकारान्तः
8 रास्ना रास्ना स्त्रीलिङ्गः राति । उणादिः आकारान्तः
9 सुगन्धा सुगन्धा स्त्रीलिङ्गः शोभनो गन्धः सुगन्धः । बहुव्रीहिः समासः आकारान्तः
10 गन्धनाकुली गन्धनाकुली स्त्रीलिङ्गः गन्धवती नाकुली ॥ तत्पुरुषः समासः ईकारान्तः