अमरकोशः


श्लोकः

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता । अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विदारी विदारी स्त्रीलिङ्गः विदारयति । अच् कृत् ईकारान्तः
2 क्षीरशुक्ला क्षीरशुक्ला स्त्रीलिङ्गः क्षीरमिव शुक्ला ॥ तत्पुरुषः समासः आकारान्तः
3 इक्षुगन्धा इक्षुगन्धा स्त्रीलिङ्गः इक्षुर्गन्धोऽस्याः । बहुव्रीहिः समासः आकारान्तः
4 क्रोष्ट्री क्रोष्ट्री स्त्रीलिङ्गः क्रोशति । तुन् उणादिः ईकारान्तः
5 क्षीरविदारी क्षीरविदारी स्त्रीलिङ्गः क्षीरवती विदारी ॥ तत्पुरुषः समासः ईकारान्तः
6 महाश्वेता महाश्वेता स्त्रीलिङ्गः महती चासो श्वेता च ॥ तत्पुरुषः समासः आकारान्तः
7 ऋक्षगन्धिक ऋक्षगन्धिका स्त्रीलिङ्गः ऋक्षान् गन्धयति । तत्पुरुषः समासः अकारान्तः