अमरकोशः


श्लोकः

आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता । इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आस्फोटा आस्फोटा स्त्रीलिङ्गः आस्फोटयति । अच् कृत् आकारान्तः
2 गिरिकर्णी गिरिकर्णी स्त्रीलिङ्गः गिरिर्बालमूषिका कर्णोऽस्याः । बहुव्रीहिः समासः ईकारान्तः
3 विष्णुक्रान्ता विष्णुक्रान्ता स्त्रीलिङ्गः विष्णुना क्रान्ता ॥ तत्पुरुषः समासः आकारान्तः
4 अपराजिता अपराजिता स्त्रीलिङ्गः न पराजिता । तत्पुरुषः समासः आकारान्तः
5 इक्षुगन्धा इक्षुगन्धा स्त्रीलिङ्गः इक्षुः गन्धोऽस्य । बहुव्रीहिः समासः आकारान्तः
6 काण्डेक्षु काण्डेक्षुः पुंलिङ्गः काण्डेनेक्षुरिव ॥ बहुव्रीहिः समासः उकारान्तः
7 कोकिलाक्ष कोकिलाक्षः पुंलिङ्गः कोकिलोऽक्षि यस्य । बहुव्रीहिः समासः अकारान्तः
8 इक्षुर इक्षुरः पुंलिङ्गः इक्षुमिक्षुगन्धं राति । तत्पुरुषः समासः अकारान्तः
9 क्षुर क्षुरः पुंलिङ्गः क्षुर इव । अकारान्तः