अमरकोशः


श्लोकः

क्षारको जालकं क्लीबे कलिका कोरकः पुमान् । स्याद्गुत्सकस्तु स्तबकः कुट्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षारक क्षारकः पुंलिङ्गः क्षरति । ण्वुल् कृत् अकारान्तः
2 जालक जालकम् नपुंसकलिङ्गः जालमिव । कन् तद्धितः अकारान्तः
3 कलिका कलिका स्त्रीलिङ्गः कलयति उणादिः आकारान्तः
4 कोरक कोरकः पुंलिङ्गः कुर्यते । वुन् उणादिः अकारान्तः
5 गुत्सक गुत्सकः पुंलिङ्गः गुध्यते उणादिः अकारान्तः
6 स्तबक स्तबकः पुंलिङ्गः स्तूयते । वुन् उणादिः अकारान्तः
7 कुड्मल कुड्मलः पुंलिङ्गः, नपुंसकलिङ्गः कुट्यते, कुटति, वा । क्मलच् उणादिः अकारान्तः
8 मुकुल मुकुलः पुंलिङ्गः, नपुंसकलिङ्गः मुञ्चति कलिकात्वम् । द्युलक् बाहुलकात् अकारान्तः