अमरकोशः


श्लोकः

शतपुष्पा सितच्छत्राऽतिच्छत्त्रा मधुरा मिसिः । अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शतपुष्पा शतपुष्पा स्त्रीलिङ्गः शतं पुष्पाण्यस्याः । बहुव्रीहिः समासः आकारान्तः
2 सितच्छत्रा सितच्छत्रा स्त्रीलिङ्गः सितं बद्धं शुभ्रं वा छत्रमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
3 अतिच्छत्रा अतिच्छत्रा स्त्रीलिङ्गः छत्रमतिक्रान्ता । तत्पुरुषः समासः आकारान्तः
4 मधुरा मधुरा स्त्रीलिङ्गः मधुरस्त्यस्याः । तद्धितः आकारान्तः
5 मिसि मिसिः स्त्रीलिङ्गः मस्यति । इन् उणादिः इकारान्तः
6 अवाक्पुष्पी अवाक्पुष्पी स्त्रीलिङ्गः अवाञ्चि पुष्पाण्यस्याः । बहुव्रीहिः समासः ईकारान्तः
7 कारवी कारवी स्त्रीलिङ्गः के आरौति । अच् कृत् ईकारान्तः
8 सरणा सरणा स्त्रीलिङ्गः सरति । युच् उणादिः आकारान्तः
9 प्रसारिणी प्रसारिणी स्त्रीलिङ्गः प्रसार्यतेऽङ्गमनया । ल्युट् कृत् ईकारान्तः