अमरकोशः


श्लोकः

पुष्पदन्तः सार्वभौम: सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुकपिलापिङ्गलानुपमा: क्रमात् ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुष्पदन्त पुष्पदन्ताः पुंलिङ्गः पुष्पमिव दन्ता यस्य । बहुव्रीहिः समासः अकारान्तः
2 सार्वभौम सार्वभौमः पुंलिङ्गः सर्वस्यां भूमौ विदितः । अण् तद्धितः अकारान्तः
3 सुप्रतीक सुप्रतीकः पुंलिङ्गः शोभनाः प्रतीका अवयवा यस्य । बहुव्रीहिः समासः अकारान्तः
4 अभ्रमु अभ्रमुः स्त्रीलिङ्गः अभ्र आकाश एव माति । कु उणादिः उकारान्तः
5 कपिला कपिला स्त्रीलिङ्गः कपिलपिङ्गलवर्णत्वात्कपिलापिङ्गले । अच् तद्धितः आकारान्तः
6 पिङ्गला पिङ्गला स्त्रीलिङ्गः कपिलपिङ्गलवर्णत्वात्कपिलापिङ्गले । अच् तद्धितः आकारान्तः
7 अनुपमा अनुपमा स्त्रीलिङ्गः श्रेष्ठत्वात्रास्त्युपमास्याः नञ् समासः आकारान्तः