वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी । विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥ २ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | वियत् | वियत् | नपुंसकलिङ्गः | वि विश्वत एति व्याप्नोति । | शतृ | कृत् | तकारान्तः |
2 | विष्णुपद | विष्णुपदम् | नपुंसकलिङ्गः | विष्णोः पदम् आस्पदम् स्वरूपं वा । | तत्पुरुषः | समासः | अकारान्तः |
3 | आकाश | आकाशः | पुंलिङ्गः,नपुंसकलिङ्गः | आ समन्तात् काशन्ते सूर्यादयोऽत्र । | समासः | अकारान्तः | |
4 | विहायस् | विहायः | पुंलिङ्गः,नपुंसकलिङ्गः | विशेषेण हाययति गमयति विमानादीन् । | समासः | सकारान्तः |