अमरकोशः


श्लोकः

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः । अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नौकादण्ड नौकादण्डः पुंलिङ्गः नौकाया दण्डः ॥ तत्पुरुषः समासः समासः अकारान्तः
2 क्षिपणी क्षिपणी स्त्रीलिङ्गः क्षिप्यतेऽनया । अनिः उणादिः ईकारान्तः
3 अरित्र अरित्रम् नपुंसकलिङ्गः ऋच्छत्यनेन । इत्र कृत् अकारान्तः
4 केनिपातक केनिपातकः पुंलिङ्गः के जले निपातोऽस्य । कप् तद्धितः अकारान्तः
5 अभ्रि अभ्रिः स्त्रीलिङ्गः अभ्रति । इन् उणादिः इकारान्तः
6 काष्ठकुद्दाल काष्ठकुद्दालः पुंलिङ्गः कुम् उद्दालयति । अण् कृत् अकारान्तः
7 सेकपात्र सेकपात्रम् नपुंसकलिङ्गः सेकस्य पात्रम् । तत्पुरुषः समासः समासः अकारान्तः
8 सेचन सेचनम् नपुंसकलिङ्गः सिच्यतेऽनेन । ल्युट् कृत् अकारान्तः