अमरकोशः


श्लोकः

बर्हिर्मुखाः क्रतुभुजो गीर्बाणा दानवारयः । वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बर्हिर्मुख बर्हिर्मुखाः पुंलिङ्गः बर्हिरग्निर्मुखं येषां ते । बहुव्रीहिः समासः अकारान्तः
2 क्रतुभुज क्रतुभुजः पुंलिङ्गः क्रतून् क्रतुषु वा भुञ्जते । तत्पुरुषः समासः अकारान्तः
3 गीर्वाण गीर्वाणाः पुंलिङ्गः गीरेव निग्रहानुग्रहसमर्था बाणोऽस्त्रं येषाम् । अण् कृत् अकारान्तः
4 दानवारि दानवारयः पुंलिङ्गः दानवानामरयः । तत्पुरुषः समासः इकारान्तः
5 वृन्दारक वृन्दारकाः पुंलिङ्गः प्रशस्तं वृन्दं येषाम् । आरकन् तद्धितः अकारान्तः
6 दैवत दैवतानि पुंलिङ्गः, नपुंसकलिङ्गः तल्, अण् तद्धितः अकारान्तः
7 देवता देवताः स्त्रीलिङ्गः तल् तद्धितः आकारान्तः