अमरकोशः


श्लोकः

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पृषदश्व पृषदश्वः पुंलिङ्गः पृषद् मृगभेदोऽश्वो वाहनमस्य । बहुव्रीहिः समासः अकारान्तः
2 गन्धवह गन्धवहः पुंलिङ्गः गन्धस्य वहः । तत्पुरुषः समासः अकारान्तः
3 गन्धवाह गन्धवाहः पुंलिङ्गः गन्धं वहति । तत्पुरुषः समासः अकारान्तः
4 अनिल अनिलः पुंलिङ्गः अनित्यनेन । इलच् उणादिः अकारान्तः
5 आशुग आशुगः पुंलिङ्गः आशु गच्छति । तत्पुरुषः समासः अकारान्तः
6 समीर समीरः पुंलिङ्गः सम्यग् ईर्ते गच्छति, ईरयति प्रेरयति वा । तत्पुरुषः समासः अकारान्तः
7 मारुत मारुतः पुंलिङ्गः म्रियन्तेऽनेन वृद्धेन विना वा । उति उणादिः अकारान्तः
8 मरुत् मरुत् पुंलिङ्गः म्रियन्तेऽनेन वृद्धेन विना वा । उति उणादिः तकारान्तः
9 जगत्प्राण जगत्प्राणः पुंलिङ्गः जगतां प्राणः । तत्पुरुषः समासः अकारान्तः
10 समीरण समीरणः पुंलिङ्गः सम्यग् ईर्ते गच्छति, ईरयति प्रेरयति वा । युच् कृत् अकारान्तः