अमरकोशः


श्लोकः

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च । क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तीव्र तीव्रम् नपुंसकलिङ्गः तीवति । रक् उणादिः अकारान्तः
2 एकान्त एकान्तम् नपुंसकलिङ्गः एकोऽन्तो निश्चयोऽत्रेति । बहुव्रीहिः समासः अकारान्तः
3 नितान्त नितान्तम् नपुंसकलिङ्गः निताम्यति स्म । क्त कृत् अकारान्तः
4 गाढ गाढम् नपुंसकलिङ्गः गाढमुद्गाढवत् । क्त कृत् अकारान्तः
5 बाढ बाढम् नपुंसकलिङ्गः निपातनम् अकारान्तः
6 दृढ दृढम् नपुंसकलिङ्गः निपातनम् अकारान्तः