अमरकोशः


श्लोकः

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ज्वाल ज्वाला पुंलिङ्गः, स्त्रीलिंङ्गः ज्वलति । कृत् अकारान्तः
2 कील कीला पुंलिङ्गः, स्त्रीलिंङ्गः कीलति । कृत् अकारान्तः
3 अर्चिस् अर्चिः स्त्रीलिङ्गः अर्च्यते । इसि उणादिः सकारान्तः
4 हेति हेतिः स्त्रीलिङ्गः हिनोति, हन्ति वा । क्तिन् स्त्रीप्रत्ययः इकारान्तः
5 शिखा शिखा स्त्रीलिङ्गः शेते । उणादिः आकारान्तः
6 स्फुलिङ्ग स्फुलिङ्गः पुंलिङ्गः, स्त्रीलिंङ्गः, नपुंसकलिङ्गः 'स्फु’ इत्यनुकरणशब्दः । स्फुना फूत्कारेण लिङ्गति । तत्पुरुषः समासः अकारान्तः
7 अग्निकण अग्निकणः पुंलिङ्गः अग्ने कण: । तत्पुरुषः समासः अकारान्तः
8 संताप संतापः पुंलिङ्गः संतापयति । अच् कृत् अकारान्तः
9 संज्वर संज्वरः पुंलिङ्गः संज्वरयति । अच् कृत् अकारान्तः