अमरकोशः


श्लोकः

वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वास्तोष्पति वास्तोष्पतिः पुंलिङ्गः वास्तोर्गृहक्षेत्रस्य पतिरधिष्ठाता । तत्पुरुषः समासः इकारान्तः
2 सुरपति सुरपतिः पुंलिङ्गः सुराणां पतिः । तत्पुरुषः समासः इकारान्तः
3 बलाराति बलारातिः पुंलिङ्गः बलस्यासुरस्याराति: । तत्पुरुषः समासः इकारान्तः
4 शचीपति शचीपतिः पुंलिङ्गः शच्याः पतिः । तत्पुरुषः समासः इकारान्तः
5 जम्भभेदिन् जम्भभेदी पुंलिङ्गः जम्भमसुरं भेत्तुं शीलमस्य । बहुव्रीहिः समासः नकारान्तः
6 हरिहय हरिहयः पुंलिङ्गः हरिर्हयो यस्य । बहुव्रीहिः समासः अकारान्तः
7 स्वाराट् स्वाराट् पुंलिङ्गः स्वः स्वर्गे राजते । तत्पुरषः समासः टकारान्तः
8 नमुचिसूदन नमुचिसूदनः पुंलिङ्गः नमुचेर्दैत्यस्य सूदनः । बहुव्रीहिः समासः अकारान्तः