अमरकोशः


श्लोकः

कार्तिकेयो महासेनः शरजन्मा षडानन: । पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कार्तिकेय कार्तिकेयः पुंलिङ्गः कृत्तिकानामपत्यम् । ढक् तद्धितः अकारान्तः
2 महासेन महासेनः पुंलिङ्गः महती सेना यस्य । बहुव्रीहिः समासः अकारान्तः
3 शरजन्मन् शरजन्मा पुंलिङ्गः शरेषु जन्मास्य । बहुव्रीहिः समासः नकारान्तः
4 षडानन षडाननः पुंलिङ्गः षड् आननान्यस्य । बहुव्रीहिः समासः अकारान्तः
5 पार्वतीनन्दन पार्वतीनन्दनः पुंलिङ्गः पार्वत्या नन्दनः । तत्पुरुषः समासः अकारान्तः
6 स्कन्द स्कन्दः पुंलिङ्गः स्कन्दति । अच् कृत् अकारान्तः
7 सेनानी सेनानी पुंलिङ्गः सेनां नयति । तत्पुरुषः समासः ईकारान्तः
8 अग्निभू अग्निभूः पुंलिङ्गः अग्नेर्भवति । तत्पुरुषः समासः ऊकारान्तः
9 गुह गुहः पुंलिङ्गः गूहति रक्षति सेनाम् । कृत् अकारान्तः