अमरकोशः


श्लोकः

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः । लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ब्रह्मसू ब्रह्मसूः पुंलिङ्गः ब्रह्म तपः, ब्रह्माणं वा सुवति चालयति । तत्पुरुषः समासः ऊकारान्तः
2 विश्वकेतु विश्वकेतुः पुंलिङ्गः विश्वस्मिन् केतुरस्य । बहुव्रीहिः समासः उकारान्तः
3 अनिरूध्द अनिरुद्धः पुंलिङ्गः न निरुद्धः । तत्पुरुषः समासः अकारान्तः
4 उषापति उषापतिः पुंलिङ्गः उषायाः पतिः । तत्पुरुषः समासः इकारान्तः
5 लक्ष्मी लक्ष्मीः स्त्रीलिङ्गः लक्षयति पश्यति नीतिज्ञम् । उणादिः ईकारान्तः
6 पद्मालया पद्मालया स्त्रीलिङ्गः पद्ममालयोऽस्याः । बहुव्रीहिः समासः आकारान्तः
7 पद्मा पद्मा स्त्रीलिङ्गः पद्ममस्त्यस्या: । अच् तद्धितः आकारान्तः
8 कमला कमला स्त्रीलिङ्गः कमलैवम् । अच् तद्धितः आकारान्तः
9 श्री श्रीः स्त्रीलिङ्गः श्रयति हरिम् । क्विप् कृत् ईकारान्तः
10 हरिप्रिया हरिप्रिया स्त्रीलिङ्गः हरेः प्रिया । तत्पुरुषः समासः आकारान्तः