षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्र: श्रीघन: शास्ता मुनि: शाक्यमुनिस्तु यः ॥ १४ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | षडभिज्ञ | षडभिज्ञः | पुंलिङ्गः | दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम्, कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । | बहुव्रीहिः | समासः | अकारान्तः |
2 | दशबल | दशबलः | पुंलिङ्गः | दश बलान्यस्य । | बहुव्रीहिः | समासः | अकारान्तः |
3 | अद्वयवादिन् | अद्वयवादी | पुंलिङ्गः | अद्वयमद्वैतं वदत्यवश्यम् । | समासः | नकारान्तः | |
4 | विनायक | विनायकः | पुंलिङ्गः | विनयत्यनुशास्ति । | ण्वुल् | कृत् | अकारान्तः |
5 | मुनीन्द्र | मुनीन्द्रः | पुंलिङ्गः | मुनिषु इन्द्रः । | तत्पुरुषः | समासः | अकारान्तः |
6 | श्रीघन | श्रीघनः | पुंलिङ्गः | श्रिया घन: पूर्णः । | तत्पुरुषः | समासः | अकारान्तः |
7 | शास्तृ | शास्ता | पुंलिङ्गः | शास्तीति शास्ता । | तृन् | उणादिः | ऋकारान्तः |
8 | मुनि | मुनिः | पुंलिङ्गः | मन्यते मुनिः । | इन् | उणादिः | इकारान्तः |
9 | शाक्यमुनि | शाक्यमुनिः | पुंलिङ्गः | शकोऽभिजनोऽस्य । | बहुव्रीहिः | समासः | इकारान्तः |