अमरकोशः


श्लोकः

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः । उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काम कामः पुंलिङ्गः कामनम् । घञ् कृत् अकारान्तः
2 अभिलाष अभिलाषः पुंलिङ्गः अभिलषणम् । घञ् कृत् अकारान्तः
3 तर्ष तर्षः पुंलिङ्गः अकारान्तः
4 लालसा लालसा पुंलिङ्गः, स्त्रीलिङ्गः असण् उणादिः आकारान्तः
5 उपाधि उपाधिः पुंलिङ्गः समीप आधेः । अव्ययीभावः समासः इकारान्तः
6 धर्मचिन्ता धर्मचिन्ता स्त्रीलिङ्गः धर्मस्य चिन्ता ॥ षष्टी तत्पुरुषः समासः आकारान्तः
7 आधि आधिः पुंलिङ्गः आधीयते दुःखमनेन । किः कृत् इकारान्तः