अमरकोशः


श्लोकः

अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ । निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे विष्वाङ्गिकसात्त्विके ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्गहार अङ्गहारः पुंलिङ्गः अङ्गस्य स्थानात् स्थानान्तरे नयनमङ्गहारः । घञ् कृत् अकारान्तः
2 अङ्गविक्षेप अङ्गविक्षेपः पुंलिङ्गः अङ्गानां विक्षेपः । तत्पुरुषः समासः अकारान्तः
3 व्यञ्जक व्यञ्जकः पुंलिङ्गः व्यनक्ति । ण्वुल् कृत् अकारान्तः
4 अभिनय अभिनयः पुंलिङ्गः अभिनयत्यर्थम् । अच् कृत् अकारान्तः
5 आङ्गिक आङ्गिकम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अङ्गेन निर्वृत्तं भ्रूविक्षेपादि । ठक् तद्धितः अकारान्तः
6 सात्त्विक सात्त्विकम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अङ्गेन निर्वृत्तं भ्रूविक्षेपादि । ठख् तद्धितः अकारान्तः