अमरकोशः


श्लोकः

प्रश्नोऽनुयोग: पृच्छा च प्रतिवाक्योत्तरे समे । मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रश्न प्रश्नः पुंलिङ्गः प्रच्छनम् । नङ् कृत् अकारान्तः
2 अनुयोग अनुयोगः पुंलिङ्गः अनुयोजनम् । घञ् कृत् अकारान्तः
3 पृच्छा पृच्छा स्त्रीलिङ्गः प्रच्छन्नम् । अङ् कृत् आकारान्तः
4 प्रतिवाक्य प्रतिवाक्यम् नपुंसकलिङ्गः प्रतिवचनम् । ण्यत् कृत् अकारान्तः
5 उत्तर उत्तरम् नपुंसकलिङ्गः उत्तरणम् । अप् कृत् अकारान्तः
6 मिथ्याभियोग मिथ्याभियोगः पुंलिङ्गः मिथ्या चासावभियोगश्च अकारान्तः
7 अभ्याख्यान अभ्याख्यानम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 मिथ्याभिशंसन मिथ्याभिशंसनम् नपुंसकलिङ्गः अभिशंखेः ल्युट् कृत् अकारान्तः