अमरकोशः


श्लोकः

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जनुस् जनुः नपुंसकलिङ्गः जननम् । उसि उणादिः सकारान्तः
2 जनन जननम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 जन्मन् जन्म नपुंसकलिङ्गः मनिन् उणादिः नकारान्तः
4 जनि जनिः स्त्रीलिङ्गः इण् उणादिः इकारान्तः
5 उत्पत्ति उत्पत्तिः स्त्रीलिङ्गः उत्पदनम् । क्तिन् कृत् इकारान्तः
6 उद्भव उद्भवः पुंलिङ्गः उद्भवनम् । अप् कृत् अकारान्तः
7 प्राणिन् प्राणी पुंलिङ्गः प्राणासन्त्यस्य । इनि तद्धितः नकारान्तः
8 चेतन चेतनः पुंलिङ्गः चेतयते, चेतति वा । ल्युट् कृत् अकारान्तः
9 जन्मिन् जन्मी पुंलिङ्गः जन्मास्यास्ति । इनि तद्धितः नकारान्तः
10 जन्तु जन्तुः पुंलिङ्गः जायते । तुन् उणादिः उकारान्तः
11 जन्यु जन्युः पुंलिङ्गः जायते । युच् उणादिः उकारान्तः
12 शरीरिन् शरीरी पुंलिङ्गः जन्यु शरीरमत्यास्ति । इनि तद्धितः नकारान्तः