प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः । प्राह्णापराह्णमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३ ॥
शब्दसङ्ख्या | प्रातिपदिकम् | प्रथमान्तःशब्दः | लिङ्गम् | व्युत्पत्तिः | प्रत्ययः/ समासनाम | वृत्तिः/शब्दप्रकारः | किमन्तः शब्दः |
---|---|---|---|---|---|---|---|
1 | साय: | सायः | पुंलिङ्गः, नपुंसकलिङ्गः | दिनस्यान्तः । | ण | कृत् | |
2 | संध्या | संध्या | स्त्रीलिङ्गः | सम्यग् ध्यायन्त्यस्याम् । | अङ् | कृत् | आकारान्तः |
3 | पितृप्रसू | पितृप्रसूः | स्त्रीलिङ्गः | पितॄन् प्रसूते । | तत्पुरुषः | समासः | ऊकारान्तः |
4 | प्राह्ण | प्राह्णः | पुंलिङ्गः | प्रथमं च तदहश्च प्राह्णः । | तत्पुरुषः | समासः | अकारान्तः |
5 | अपराह्ण | अपराह्णः | पुंलिङ्गः | अपर-अह्न =अह्रोऽपरम् अपराह्णः । | तत्पुरुषः | समासः | अकारान्तः |
6 | मध्याह्न | मध्याह्नः | पुंलिङ्गः | मध्यं च तदहश्चेति वा । | तत्पुरुषः | समासः | अकारान्तः |
7 | शर्वरी | शर्वरी | स्त्रीलिङ्गः | शृणाति चेष्टाः | ष्वरच् | उणादिः | ईकारान्तः |