प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥
अन्वयः – अत्र, प्रायशः, रूपभेदेन, च, (पुनः), कुत्रचित्, साहचर्यात्, क्वचित्, तद्विशेषविधेः, स्त्री-पुं-नपुंसकं ज्ञेयम् ॥ ३ ॥
लिङ्गज्ञानोपायं परिभाषते - प्रायश इति । ‘वह्वल्पार्थाच्छस्' (५.४.४२) इति शस् प्रायशो बाहुल्येन, रूपभेदेन ड्याब्विसर्गबिन्दुरूपेण स्त्रीपुंनपुंसकं बोध्यम् । यथा-‘पद्मालया पद्मा’ ‘पिनाकोऽजगवं धनुः । क्वचिद्विशेषणपदस्थेन सर्वनामपदस्थेनापि रूपभेदेन स्त्रीपुंनपुंसकं ज्ञेयम् । यथा-‘तत्परो हनुः । अत्र तत्पर इति विशेषणाद्धनोः पुंस्त्वम् । (कुतूः कृत्ते: स्नेहपात्रम्) सैवाल्पा कुतुपः पुमान्’। (अत्र) ‘सा' इत्युक्त्या कुत्वाः स्त्रीत्वम् । निश्चितलिङ्गेनानन्तर्यं साहचर्यम् । रूपभेदाभावेऽपि क्वचित्तेनापि लिङ्गं ज्ञेयम् । यथा-‘अश्वयुगश्विनी’ ‘भानुः कर:’ ‘वियद्विष्णुपदम्’ । अत्राश्वयुग्भानुवियन्ति साहचर्या स्त्रीपुंनपुंसकानि ज्ञेयानि । क्वचित् तस्य स्त्रीपुंनपुंसकस्य विशेषोपादानात्तज्ज्ञेयम् । यथा-‘भेरी स्त्री दुन्दुभिः पुमान्’ ‘रोचि: शोचिरुभे क्लीबे' ॥ ३ ॥