समाहृत्यान्यतन्त्रापि संक्षिप्तैः प्रतिसंस्कृतैः । सम्पूर्णमुच्यते वगैर्नामलिङ्गानुशासनम् ॥ २ ॥
अभिधेयप्रयोजने दर्शयति – समेति । मया, अन्येषां व्याड्यादीनां तन्त्राणि नामलिङ्गानुशासनानि, सिद्धान्तान्वा । समाहृत्यैकीकृत्य, संगृह्य वा । नामान्याख्याः, लिङ्गानि च स्त्रीपुंनपुंसकानि, अनुशिष्यन्ते विविच्य बोध्यन्तेऽस्मिन्ननेन वेति नामलिङ्गानुशासनम्, ‘करणाधिकरणयोश्च' (३.३.१७) इति ल्युट् । सम्पूर्णं न्यूनत्वदोषरहितम् । उच्यते । कीदृशम्-वर्गैः प्रकरणैर्युक्तम् । कीदृशैः-संक्षिप्तैः स्वल्पशब्दैः। पुनः कीदृशैः | प्रतिसंस्कृतैः प्रत्येकं क्रमकथनेन कृतोत्कर्षैः । यद्वा असारांश रहितै: शब्दरचनाविशेषवद्भिः। त्रिकाण्डोत्पलिन्यादीनि नाममात्रप्रतिपादकानि । वररुच्यादिकृतानि तु लिङ्गमात्रप्रतिपादकानि । अत्र तुभयार्थसंग्रहादिदमेव सर्वैः पाठ्यमिति भावः ॥ २ ॥