यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १ ॥
बल्लवीवल्लभं नत्वा गुरुं (गिरं) भट्टोजिदीक्षितम् ।
आ (अ)मरे विदधे व्याख्यां मुनित्रयमतानुगाम् ॥
प्रारिप्सितप्रत्यूहापनुत्तये कृतं मङ्गलं शिष्यशिक्षार्थमादौ निबबन्ध – यस्येति । हे अनघाः, भवद्भिः स धीराः सेव्यताम् । न अघं पापं तेऽनघा निष्पापाः । सुकृतिन इति यावत् । सुकृतिन एव तं सेवितुं प्रभवन्तीति त एव सम्बोध्यन्ते ‘धर्मेण पापमपनुदति' इति श्रुतेः । धियं राति ददाति । ‘रा दाने' (अ० प० अ०) अस्मात् ‘क्विप् च' (३.२.७६) इति क्विप् ॥ धीरा ज्ञानप्रदो गुरुः । अनेन ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ इति श्रुत्यर्थ उपदिष्टः। ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति गुरुसेवाया: फलमाह – श्रिये चामृताय चेति । चद्वयमुभयोः प्राधान्यद्योतनाय । भुक्तिमुक्तिप्राप्तिर्गुरुसेवातो भवति । ‘क्रियार्थोपपदस्य' (२.३.१४) इति चतुर्थी । तादर्थ्ये (वा० २.३.१३) वा । तदुक्तं भागवते -‘योगर्द्धिमापुरुययीं यदुहैहयाद्याः' इति । ननु गुरोः श्रियोऽभावात्ततः कथं सा प्रार्थ्य (प्य)त इत्या शङ्क्याह – यस्येति । अस्य गुरोरी लक्ष्मीरस्ति, गुणाश्च सन्ति । तदुक्तं भागवते - ‘ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतोऽजित' इति । ‘सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च' इत्यादयो गुणाः । कीदृशस्यास्य ज्ञानदयासिन्धोः । ज्ञायतेऽनेनेति ज्ञानं शास्त्रम्, दया निष्कारण परदुःखप्रहाणेच्छा । तयोः सिन्धोरिव । शास्त्रसम्पन्नस्य, दयापूर्णस्य च । अनेन ‘श्रोत्रियं ब्रह्मनिष्ठम्' इति विशेषणयोर्मध्ये श्रोत्रियत्वमुक्तम् । स ज्ञानवानपि किमर्थं दास्यतीत्यतो दयावत्त्वमुक्तम् । ‘दयालोरसमर्थस्य दु:खायैव दयालुता' इत्यतो ज्ञानवत्त्वमुक्तम् । कीदृशस्य – अगाधस्य । न गाधस्तलस्पर्शो यस्य गम्भीरस्य । विषयानाकृष्टस्येति । यावत् । यद्वा अगं शैलं वृक्षं वा आप्नोति । ‘अन्येभ्योऽपि दृश्यते' (वा० ३.२.१०१) इति आप्नोते: (आप्लृ व्याप्तौ) (स्वा० प० अ० ) डः। टिलोपः (६.४.१४३) । सवर्णदीर्घः (६.१.१०१) । तमगं दधाति मनसेत्यगाधः । तस्य । परमेश्वरभक्तस्येति यावत् । कीदृशो धीराः अक्षयः । अ: वासुदेवः; तस्मिन् क्षयो ज्ञानं निवासो वास्य सोऽक्षयः । अनेन ब्रह्मनिष्ठतारूपं द्वितीयं विशेषणमुक्तम् । यद्वा न क्षयो हिंसा यस्य । 'क्षीष हिंसायाम् (क्र्या० प० अ०) । ‘एरच्’ (३.३.५६) । पूर्वत्र तु ‘क्षि निवासगत्योः' (तु० प० अ०) । परपीडापहारकः। 'यस्मान्नोद्विजते लोकः' इति गीता । अथवा स धीरा मया सेव्यताम् । स कः । यस्य गुणा अनघाः । न अघं येभ्यस्तेऽनघाः । पापनिवर्तका इति यावत् । 'यशः कलिमलापहम्' इति भागवतात् । शेषं समानम् । ‘आशिषि लिङ्लोटौ' (३.३.१७३) इति कर्मणि लोट् । इत्थं हि गुरु सेवापरान् प्रति कर्तव्यत्वेनोपदिश्यते, स्वयं वा प्रार्थ्यते । गुरुसेवामाहात्म्यं च ब्रह्मवैवर्तादौ प्रसिद्धम् । भागवेऽपि 'यथाऽहं ज्ञानदो गुरु' इति, ‘तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा' इति च । एवं ‘लक्ष्मीवान्, कल्याण-(निर्मल)-गुणः, शास्त्रसम्पन्नो, दयापूर्णो, विषयानाकृष्टो, विष्णुभक्तो, विष्णुसाक्षात्कारवान्, ज्ञानदो, गुरुः सम्पत्प्राप्त्यर्थं मोक्षप्राप्त्यर्थं च निष्पापैरधिकारिभिः, मया वा सेव्यताम्' इति परेभ्यो हितमुपदिशन्, स्वहितमाशंसमानो वा ग्रन्थकृदाशीर्वादलक्षणम् (इति) लक्ष्मीस्मरणलक्षणं च मङ्गलमाचचार । यत्तु मुकुट: ‘स्वेष्टदेवतासङ्कीर्तनाद्विशिष्टदृष्टमुत्पिपादयिषुः' इत्यवोचत् । तन्न । देवतावाचकपदस्यात्रादर्शनात्, आशीर्लोटो दर्शनाच्च । स्वामी तु-‘जिनमनुस्मृत्य' इति स्मरणलक्षणं मङ्गलमाह । तन्न । जिनवाचकपदस्यात्रादर्शनात्, सामान्यशब्दानां जिनलक्षण विशेषपरत्वेन व्याख्यानस्य वैदिकानामनुचितत्वात्, अमरकर्तुर्जैनत्वे प्रमाणाभावाच्च । प्राञ्चस्तु - ‘हे धीराः, स भगवान् सेव्यतामाराध्यताम् । धैर्यशालिन एव सेवितुं शक्नुवन्तीति तानेव सम्बोधयति । प्रकृतत्वाद्युष्माभिर्हितेच्छुभिः । स कः यस्य गुणा मैत्रीमर्यादादयोऽणिमादयो वा अनघा निष्पापाः । रागाद्यसंवलिता इति यावत् । यद्वा, हृद्याः । तथा च धरणिः- ‘अनघोऽपाप-हृद्ययोः' इति । किम्भूतस्य-ज्ञानदयासिन्धोः । ज्ञानं समस्त-विद्या(षया)वबोधः । दृष्टं स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा दया । तयोरम्बुतुल्ययो: सिन्धोरिव सिन्धोर्विपुलाधारस्य, अगाधस्य अनवच्छिन्नमहिम्नः । अन्यैरनधिगत ज्ञानपारत्वादपरिच्छेद्यगाम्भीर्य (द्यं गाम्भीर्यं) यस्य वा । स किम्भूतः - परहितापादनेषु नास्ति क्षयो विरामो यस्य, मरणादिराहित्याद्वा । फलाधीनैव प्रेक्षावतां प्रवृत्तिरत आह श्रिये चेत्यादि । श्रीरत्र त्रिवर्गसम्पत्तिः, तां प्राप्तुम्, अमृताय मोक्षाय च । यद्वा–स सिन्धुः सेव्यताम् । स क: – यस्य अगाधस्यातलस्पर्शस्य, अक्षयस्य सदा परिपूर्णस्य, अस्य विष्णो: क्षयस्य निवासस्य वा गुणा: अनघा रत्नादिमत्त्वानैर्मल्यादयः, श्रिये लक्ष्म्यै, अमृताय च पीयूषाय च इत्याहु: । अत्र समुद्रपक्षस्तु न सम्यगिव । ज्ञानेत्यस्यानन्वयात् । 'अक्षयः' इत्यस्य प्रथमान्तस्य षष्ठ्यन्तत्वेन व्याख्यानस्यानुचितत्वात् । 'अभीष्टदेवतानमस्काराद्युपनीतमदृष्टं हि-' इत्यादि स्वग्रन्थविरोधाच्च । आशीर्नमस्क्रियावस्तुनिर्देशेष्वनन्तर्भावात् । ‘ज्ञानदययोः स्यन्दते प्रवर्तते देवतारूपत्वात्' इति वा, ‘ज्ञानदये स्यन्देते प्रवर्तेते देवतारूपेऽस्मिन्' इति वा समाधेयम् । षष्ठ्यर्थोऽप्यार्थिकार्थत्वेन समाधातुं शक्यः । ‘स्यन्दतेः सम्प्रसारणं धश्च' (उ० १.११) इत्युः । यत्तु मुकुट:-‘ताभ्यां सिन्धुरिवेति प्रकृत्यादित्वात् (२.३.१८ वा०) तृतीया । ‘तृतीया' (२.१.३०) इति ‘योगविभागात्समासः' इति ‘सर्वधरादयः' इति । तदपि न सम्यक् । अर्थासङ्गतेः । प्रातिपदिकार्थे हि सा, तस्य न भेदेनाभेदेन वात्रान्वयः सम्भवति । अभेदे हि तृतीया व्यर्था । प्रथमाया एवौचित्यात् ॥ १ ॥