संस्कृतवाङ्मये बहवः ग्रन्थाः सन्तीत्यतः वाङ्मयमिदम् अपरब्रह्म इव विद्योतते । तेषु च ग्रन्थेषु कोशग्रन्थाः सहस्राधिकाः राराज्यन्ते । शब्दसाधुत्वरक्षणार्थं यथा व्याकरणं तस्य अर्थावबोधनाय कोशः विद्यते । शब्दानां लिङ्गनिर्धारणे यथा व्याकरणं यथा च कोशान्तरम् उपकारकं तथैव अमरकोशोऽपि । समानार्थे विद्यमानाः शब्दाः पर्यायवाचिनः इत्युच्यन्ते । तथा पर्यायवाचिनाम् अनेकेषां शब्दनिचयानां सङ्ग्रहः एव कोशपदेन वाङ्मये व्यवह्रियते ।
अर्थक्लेशः स्मृतिकाठिन्यं कोशोद्भवे हेतुः । भाषाविषये “अर्थज्ञवित् सकलं भद्रमश्नुते” इत्यभिप्रायः प्राचाम् । अतः अर्थज्ञानार्थं कोशाः अत्यन्तम् अपेक्षिताः एव ।वैदिकवाङ्मये लौकिकवाङ्मये च सहस्राधिककोशाः समुपलभ्यन्ते । कोशकाराणां राजत्येव सुमहत्पात्रम् । उत्पलिनी, नाममाला, संसारार्तवः, अनादिकोशः, अनेकार्थशब्दकोशः, शब्दकल्पद्रुमः इत्येवमादयः बहवः लौकिककोशाः सन्ति । सत्स्वपि अनन्तेषु कोशेषु नितान्तं जनमानसान्तं राराज्यमानः कोशः अस्ति अयम् अमरकोशः ।
सर्वेषु कोशेषु कश्चन सुप्रसिद्धः अतिप्राचीनकोशः श्रीमता अमरसिंहेन विरचितः अमरकोशः । कोशस्यास्य नामान्तराणि सन्ति - नामलिङ्गानुशासनम्, अमरकोशः, त्रिकाण्डकोशः इति । प्राथम्येन गृहेषु गुरुकुलेषु च बालपाठत्वेन कण्ठस्थीकारणाय समाश्रीयमाणः अयम् अमरकोशः परमदक्षाणां पण्डितानाम् अपि सति सन्देहे मार्गदीपायते ।
काण्डत्रये विभक्तोऽयं कोशः 1500 श्लोकैः, 10322 शब्दैश्च समलङ्कृतः विराजते यत्र च श्लोकाः अनुष्टुब्छन्दसा निबद्धाः । शब्दानाम् अर्थेन सहितं लिङ्गनिर्णयोऽपि कृतः इति अस्य वैशिष्ट्यम् । प्रथमे स्वर्गादिकाण्डे दश वर्गाः, द्वीतीये भूम्यादिकाण्डे दश वर्गाः, तृतीये सामान्यकाण्डे च पञ्च वर्गाः इत्येवम् आहत्य पञ्चविंशत्यां वर्गेषु सम्पूर्णकोशः विन्यस्तः ।