सुधाव्याख्या

शब्दानाम् अर्थज्ञानार्थं कोशः नित्यमुपकरोति । संस्कृतवाङ्मये अनन्ताः कोशाः राराज्यन्ते । सर्वेषु कोशेषु कश्चन सुप्रसिद्धः कोशः अस्ति अमरसिंहस्य अमरकोशः । अस्य कोशस्य बह्व्यः व्याख्याः सन्ति । व्याख्याप्रदीपः, अमरकोषमाला, अमरविवेकः, पदचन्द्रिका इत्यादयः । तासु श्रीभानुजिदीक्षितकृत-व्याख्यासुधा नाम व्याख्या सुप्रसिद्धा ।

व्याख्यासुधायां शङ्कासमाधानम्, खण्डनमण्डनम्, सदसद्विवेचनम्, पाठान्तरादिकथनम् इत्येवमादयः बहवः विचाराः सन्ति । व्याकरणभूयिष्ठाः विषयाः अपि नैकाः । पाणिन्यादिकृतसूत्रवार्तिकोणादिसूत्राणि योजयित्वा धातुप्रत्ययनिर्देशनपुरस्सरं स्थाने व्युत्पत्त्यन्तरसाधनपुरस्सरं प्रक्रियाप्रदर्शनपुरस्सरं प्रत्येकं पदमपि सुसाधितमिति अस्याः व्याख्यायाः वैशिष्ट्यम् ।

त्रिकाण्डशेषः, देशीकोशः, द्विरूपकोशः, नाममाला, मेदिनी, रत्नकोशः, रुद्रकोशः, विक्रमादित्यकोशः, विश्वः, हलायुधः इति नानाविधकोशानां कोशपङ्क्तयः तत्र तत्र शब्दव्याख्यानवेलायां स्वीकृताः सुधाकारैः भानुजिदीक्षितैः ।

सिद्धान्तकौमुदीकारस्य महावैयाकरणस्य भट्टोजिदीक्षितस्य आत्मजः भानुजिदीक्षितः । अयमपि पितृवदेव महावैयाकरण इति सुधाव्याख्यावलोकनेनैव सुस्पष्टं ज्ञायते । रामाश्रम इति भानुजीदीक्षितस्य नामान्तरम् । अतस्तस्य व्याख्यायाः व्याख्यासुधायाः रामाश्रमी इति नाम प्रथते ।

सुधाव्याख्यायाः मङ्गलपद्यम् –

बल्लवीवल्लभं नत्वा गुरुं (गिरं) भट्टोजिदीक्षितम् ।
आ (अ)मरे विदधे व्याख्यां मुनित्रयमतानुगाम् ॥