नारी

सुधाव्याख्या

‘नृनरयोर्वृद्धिश्च’ इति शार्ङ्गरवादि (४.१.७३) गणे पाठान्ङीन् । जातिलक्षणस्य (४.१.६३) ङीषोऽपवादः, ङीन्संनियोगेन वृद्धिश्च । मुकुटस्तु - नुर्नरस्य वा धर्म आचारोऽस्याः । ‘नृनराभ्यां च’ (वा० ४.४.४९) इत्यञ् । वृद्धिः (७.२.११७) । ‘टिड्ढा-’ (४.१.१५) इति ङीप् । नारी । नुर्नरस्य वेयम् । ‘तस्येदम्’ (४.३.१२०) इत्यणि वृद्धौ (७.२.११७) नारी, इति वा इत्याह तन्न । ‘नृनराभ्याम्’ इत्यस्याप्रसिद्धत्वात् । ‘तस्येदम्’ (४.३.१२०) इत्यणि ‘नृनरयोः’ इत्यस्य वैयर्थ्यप्रसङ्गात् । ङीप्ङीनोः स्वरभेदाच्च ॥