अमरकोशः


श्लोकः

त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥

* सुधा *

अन्वयः – त्रिलिंग्यां, ‘त्रिषु' इति, पदम्, तु, मिथुने, ‘द्वयोः' इति, (पदम्), निषिद्धलिङ्गं, शेषार्थम्, (ज्ञेयम्), त्वन्ताथादि, पूर्वभाक्, न, (इति ज्ञेयम्) ॥ ५ ॥

त्रयाणां लिङ्गानां समाहारस्रिलिङ्गी, तत्र ‘त्रिषु' इति पदं ज्ञेयम् । इति परिभाष्यते । यथा-‘त्रिषु स्फुलिङ्गोऽग्निकण: । न्याससिद्धं चैतत् । त्रिलिङ्ग्यतिरिक्तस्यार्थ (र्थान्तर )स्यासम्भवात् । अयोगाच्च । स्त्रीपुंसौ मिथुनम्, तत्र ‘द्वयोः' इति पदं ज्ञेयम् । यथा-‘द्वयोज्वालकीलौ' । ‘द्वयोः' इति द्विशब्दप्रयोगोपलक्षणम् । तेन ‘द्विहीनं प्रसवे सर्वम्’ ‘द्वयहीने कुकुन्दरे' इत्याद्युपपद्यते । तथा निषिद्धं लिङ्गं यस्य तन्निषिद्धलिङ्गं पदं, शेषार्थं शेषलिङ्गकं ज्ञेयम् । इदमपि न्यायसिद्धम् । विशेषनिषेधे शेषाभ्यनुज्ञानात् । यथा-‘वज्रमस्त्री' इति । तुरन्ते यस्य तत्त्वन्तम्, अथ आदिर्यस्य तदथादि, त्वन्तं च अथादि च नामपदं लिङ्गपदं सर्वनामपदं अव्ययपदं च पूर्वान्वयि न भवति । किं तूत्तरान्वयि । ‘नगरी त्वमरावती’ ‘जवोऽथ शीघ्रं त्वरितम्' इति च नामपदम् । ‘पुंसि त्वन्तर्धि: ‘शस्तं चाथ त्रिषु द्रव्ये' इति लिङ्गपदम् । ‘तस्य तु प्रिया' इति सर्वनामपदम् । ‘वा तु पुंसि' इत्यव्ययपदम् । अथशब्दोऽथोशब्दस्याप्युपलक्षणम् । यथा-‘अनुक्रोशोऽप्यथो हसः' । न्यायसिद्धमिदम् । तुना पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । भ्रमविषयं चैतत् । ‘उदपानं तु पुंसि वा’ इत्यादौ तु न दोषः । उत्तरस्यानामत्वात् । लिङ्गवाचिनाऽन्वयेऽपि दोषाभावात् । वस्तुतस्तु अत्र पादपूरणाय चकाराद्येव पठितुं युक्तम् ॥ ५ ॥