अमरकोशः


श्लोकः

भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः । कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥

* सुधा *

अन्वयः – अन्न, अनुक्तानां, भिन्नलिङ्गानां, भेदाख्यानाय, द्वन्द्वः, न, कृतः, एकशेषः, न, (कृतः), क्रमात्, ऋते, सङ्करः, न, (कृतः) ॥ ४ ॥

अत्र कोशे, अनुक्तानां स्वपर्यायेष्वपठितानाम्, भिन्नं लिङ्गं येषां तेषाम्, लिङ्गभेदमाख्यातुम्, द्वन्द्व एकशेषश्च न कृतः । यथा-‘देवतादैवतामराः' इति न कृतम् । परवल्लिङ्गता स्यात् । यथा वा-‘खं नभः श्रावणो नभाः' इत्यत्र ‘खश्रावणौ तु नभसी' इति न कृतम् । शिष्यमाणलिङ्गतैव स्यात् । समानलिङ्गानां तु तौ कृतावेव । यथा- ‘स्वर्गनाकत्रिदिवत्रिदशालया:’ ‘पादा रश्म्यङ्घ्रितुर्यांशा:' । स्थानान्तरनिर्दिष्टानां तु भिन्नलिङ्गानामपि तौ कृतावेव । यथा-'अप्सरोयक्षरक्षोगन्धर्वकिन्नरा:' ‘मातापितरौ पितरौ' । एते स्वस्वपर्यायेषुक्ता एव । तथा तेषां क्रमादृते कर्म विना सङ्करो न कृतः । स्त्रीपुंनपुंसकानि क्रमेण पठितानि, तेषु क्रमेण पठ्यमानेषु नान्तरीयकस्तु सङ्करो न दोष इति भावः । सङ्करो नाम भिन्नलिङ्गानां मिश्रतारूपः । यथा-‘स्तवः' इति पुंलिङ्गमुक्त्वा, ‘स्तोत्रं नपुंसकमुक्त्वा, ‘नुतिः स्तुतिः' इति स्त्रीलिङ्गावुक्तौ । न तु ‘स्तुति: स्तोत्रं स्तवो नुतिः' इति कृतम् । एवं ‘जनुर्जननजन्मानि' इति नपुंसकलिङ्गान्निरूप्य, ‘जनिरुत्पत्ति: इति स्त्रीलिङ्गावुक्त्वा, उद्भवशब्दः पुंलिङ्ग उक्तः । यत्तु स्वामिनोक्तम् - ‘एतच्च क्रमादृते । यत्र संग्रहश्लोकादौ क्रममात्रं विवक्षितम्, तत्र अनुक्तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । यथा ‘वर्गा: पृथ्वीपुरक्ष्माभृद्वनौषधि-' इत्यादौ द्वन्द्वसङ्करौ, ‘भ्रात्रादावेकशेषश्च कृतः' इति । तन्न । इत्थं हि ‘पृथ्वीपुर इत्यादिनिर्वाहेऽपि भ्रात्रादावनिर्वाह एव । तत्र क्रममात्रस्याप्रति पिपादयिषितत्वात् । अत एव ‘अप्सरोयक्षरक्षोगन्धर्वकिन्नरा:' इत्यादावप्यनिर्वाहः । यदपि 'उपाध्यायश्च क्रमादृते' इत्यन्तर्गडुमन्वानः ‘क्रमेणादृते परिपाट्योपादेये ग्रन्थे' इति व्याख्यत् इति स्वामी । तदपि न । अन्तर्गडुमानस्य निजत्वात् । अस्मदुक्तरीत्या तस्य सामञ्जस्यात् ॥ ४ ॥